अग्निं विविक्षु: कृष्णेन प्रद्युम्नेन निषेधित: :
दर्शये द्विजसूनुं ते मावज्ञात्मानमात्मना।।26।।
कीर्तिं त एते विपुलां स्थापयिष्यन्ति मानवा:।
इति सम्भाष्य मां स्नेहात् समाश्वास्य च माधव:।।27।।
सान्त्वयित्वा तु तं विप्रमिदं वचनमब्रवीत्।
सुग्रीवं चैव शैब्यं च मेघपुष्पाबलाहकौ।।28।।
योजयाश्वानिति तदा दारुकं प्रत्यभाषत।
आरोप्य ब्राह्मणं कृष्णो ह्यवरोप्य च दारुकम्।।29।।
मामुवाच तत: शौरि: सारथ्यं क्रियतामिति।
तत: समास्थाय रथं कृष्णोऽहं ब्राह्मण: स च।
प्रयाता: स्म दिशं सौम्यायमुदीचीं कौरवर्षभ।।30।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वासुदेवमाहात्म्ये श्रीकृष्णस्योदीचीगमने द्वादशाधिकशततमोऽध्याय:।