यथा चतुर्थं धर्मस्य रक्षिता लभते फलम्।
पापस्यापि तथा मूढ़ भागं प्राप्नोत्यरक्षिता।।16।।
रक्षिष्यामीति चोक्तं ते न च शक्तोऽसि रक्षितुम्।
मोघं गाण्डी वमेतत्ते मोघं वीर्यं यशश्च ते।।17।।
अकिञ्चिदुक्वामि तं विप्रं ततोऽहं प्रस्थितस्तथा।
सह वृष्ण्यन्धवकसुतैर्यत्र कृष्णो महाद्युति:।।18।।
ततो द्वारवतीं गत्वा दृष्ट्वा मधुनिघातिनम्।
व्रीडित: शोकसंतप्तो गोविन्देनोपलक्षित:।।19।।
स तु मां व्रीडितं दृष्ट्वा विनिन्दन् कृष्णोसंनिधौ।
मौढ्यं पश्यमत मे योऽहं श्रद्दधे क्लीबकत्थनम्।।20।।