ततो मां व्रीडितं मत्वा पुनराह जनार्दन:।
गम्यतां कौरवश्रेष्ठ शक्यते यदि रक्षितुम्।।16।।
त्वत्पुरोगाश्च रक्षन्तु वृष्ण्यन्धकमहारथा:।
ऋते रामं महाबाहुं प्रद्युम्नं च महाबलम्।।17।।
ततोऽहं वृष्णिसैन्येन महता परिवारित:।
तमग्रतो द्विजं कृत्वा प्रयात: सह सेनया।।18।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वासुदेवमाहात्म्ये एकादशाधिकशततमोऽध्याय:।