यन्मां भवन्त: पृच्छन्ति वाक्यस्यास्य विनिर्णयम्।
तदेतत् सर्वमाख्याशतं साधयामि यथागतम्।।86।।
नारदे तु गते स्वर्गे सर्वे ते पृथिवीभुज:।
विस्मिता: स्वानि राष्ट्राणि जग्मु: सबलवाहना:।।87।।
जनार्दनोऽपि सहितो यदुभि: पावकोपमै:।
स्वमेव भवनं वीरो विवेश यदुनन्दन:।।88।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि धन्योपाख्यानं नाम दशाधिकशततमोऽध्याय:।