नारद उवाच
श्रूयतां भो नृपश्रेष्ठा यावन्त: स्थ समागता:।
अस्यं कृष्णस्य महतो यथा पारमहं गत:।।31।।
अहं कदाचिद् गंगायास्तीरे त्रिषवणातिथि:।
चराम्येक: क्षपापाये दृश्यमाने दिवाकरे।।32।।
अपश्यं गिरिकूटाभं कपालद्वयदेहिनम्।
क्रोशमण्डदलविस्तांर तावद् द्विगुणमायतम्।।33।।
चतुश्चणरणसुश्लिष्टं क्लिन्नं चैव सपंकिलम्।
मम वीणाकृतिं कूर्मं गजचर्मचयोपमम्।।34।।
सोऽहं तं पाणिना स्पृष्ट्वा प्रोक्तवांञ्जलचारिणम्।
त्वहमाश्चर्यशरीरोऽसि कूर्म धन्योऽसि मे मत:।।35।।