रणमध्ये स्थित: कार्ष्णिश्चिन्त्यन् निधनं रिपो:।
सैन्यै: परिवृतोऽसंख्यैचर्युद्धाय कृतनिश्चय:।।31।।
क्रुद्ध: शरसहस्रेण प्रद्युम्नं समताडयत्।
सम्प्राप्तांरश्चैव तान् बाणांश्चिच्छेद कृतह स्तवत्।।32।।
प्रद्युम्नो धनुरादाय शरवर्षं मुमोच ह।
तस्मिन् सैन्ये न कोऽप्यस्ति यो न विद्ध शरेण वै।।33।।
प्रद्यम्नशरपातेन तत् सैन्यं विमुखीकृतम्।
शम्बस्यो तथाभ्याशे स्थितं संहृत्य भीतवत्।।34।।
स्वबलं विद्रुतं दृष्ट्वा शम्बर: क्रोधमूर्च्छित:।
आज्ञापयामास तदा सचिवान् दानवेश्वर:।।35।।