क्वचिद् दुर्दिनसंकाशै: क्वचिच्छिन्नाभ्रसंनिभै:।
क्वचिद् भिन्नांजनाकारै: क्वचिच्छीकरवर्षिभि:।।16।।
मण्डयन्तीव देवेन्द्रो विश्वमेवं नभो घनै:।
क्वचिच्छीकरमुक्ताभं कुरुते गगनं घन:।।17।।
एवमेतत् पयो दुग्धं गोभि: सूर्यस्य वारिदै:।
पर्जन्य: सर्वभूतानां भवाय भुवि वर्षति।।18।।
यस्मात् प्रावृडियं कृष्ण शक्रसय भुवि भाविनी।
तस्मात् प्रावृषि राजान: सर्वे शक्रं मुदा युता:।
महै: सुरेशमर्चन्ति वयमन्ये च मानवा:।।19।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शिशुचर्यायां गोपवाक्ये पंचदशोअध्याय:।