वैशम्पायन उवाच
अथैत्य द्वारकां रम्यां नारदो मुनिसत्तरम:।
ददर्श पुरुषश्रेष्ठं नारायणमरिंदमम्।।1।।
स्ववेश्मंनि सुखासीनं सहितं सत्यभामया।
विराजमानं वपुषा सर्वतेजोऽतिगामिना।।2।।
तमेवार्थं महात्मानं चिन्तनयन्तं दृढव्रतम्।
केवलं योजयन्तं च वाक्यमात्रेण भाविनीम्।।3।।
दृष्टै्व नारदं देव: प्रत्यु्त्थाय अधोक्षज:।
पूजयामास च तथा विधिदृष्टेन कर्मणा।।4।।
सुखोपविष्टं विश्रान्तं प्रहस्या मधुसूदन:।
वृत्तान्तं परिप्रच्छत पारिजाततरुं प्रति।।5।।