वैशम्पायन उवाच
अन्धकस्य वच: श्रुत्वा कंस: संरक्तलोचन:।
न किंचिदब्रवीत् क्रोधाद् विवेश स्वं निकेतनम्।।1।।
ते च सर्वे यथावेश्म यादवा: श्रुतिविस्तरा:।
जग्मुर्विगतसंकल्पा: कंसवैकृतशंसिन:।।2।।
अक्रूरोऽपि यथाऽऽज्ञप्त: कृष्णदर्शनलालस:।
जगाम रथमुख्येन मनसा तुल्यगामिना।।3।।
कृष्णस्यापि निमित्तानि शुभान्यंगगतानि वै।
पितृतुल्येन शंसन्ति बान्धवेन समागमम्।।4।।
प्रागेव च नरेन्द्रेण माथुरेणौग्रसेनिना।
केशिन: प्रेषितो दूतो वधायोपेन्द्रकारणात्।।5।।