स प्रहस्यं ततो वाक्यं: व्याजहारार्थकोविद:।
तस्मान्मुक्तोऽसि यद्येवं बाणेन समय: कृत:।।96।।
प्रश्नितैर्मधुरैर्वाक्यैमस्तत्वार्थमधुभाषितै:।
कथं पापं करिष्यामि वरुण त्वय्यहं प्रभो।।97।।
गच्छ मुक्तोऽसि वरुण सत्यसंधोऽसि नो भवान्।
त्वत्प्रियार्थं मया मुक्ता बाणगावो न संशय:।।98।।
ततस्तूपर्यनिनादैश्च भेरीणां च महास्वनै:।
अर्घ्यपमादाय वरुण: केशवं प्रत्यपूजयत्।
केशवोऽर्घ्यं तदा गृह्य वरुणाद् यदुनन्दन:।।99।।
बलं चापूजयद् देव: कुशलीव समाहित:।
वरुणायाभयं दत्त्वा वासुदेव: प्रतापवान्।।100।।
द्वारकां प्रस्थित: शौरि: शचीपतिसहायवान्।