अथास्तं गच्छति तदा मन्दरश्मौ दिवाकरे।
संध्यारक्ततले व्योम्नि शशांके पाण्डुमण्डले।।1।।
नीडस्थेषु विहंगेषु सत्सु प्रादुष्कृताग्निषु।
ईषत्तम: संवृतासु दिक्षु सर्वासु सर्वश:।।2।।
घोषवासिषु सुप्तेषु वाशन्तीषु शिवासु च।
नक्तंचरेषु हृष्टेषु पिशिताशनकाङ्क्षिषु।।3।।
शक्रगोपाह्वयामोदे प्रदोषेअभ्यासतस्करे।
संध्यामयीमिव गुहां सम्प्रतिष्ठे दिवाकरे।।4।।
अधिरयणवेलायां प्राप्तायां गृहमेधिनाम्।
वन्यैर्वैखानसैर्मन्त्रैर्हूयमाने हुताशने।।5।।