जनमेजय उवाच
विदर्भनगराद् याते शक्रतुल्यपराक्रमे।
किमर्थं गरुडो नीत: किं च कर्म चकार स:।।1।।
न चारुरोह भगवान् वैनतेयं महाबलम्।
एतन्मे संशयं ब्रह्मन् ब्रूहि तत्त्व् महामुने।।2।।
वैशम्पायन उवाच
श्रृणु राजन सुपर्णेन कृतं कर्मातिमानुषम्।
विदर्भनगरीं गत्वा वैनतेयो महाद्युति:।।3।।
असम्प्राप्ते च नगरीं मथुरां मधुसूदने।
मनसा चिन्यामास वैनतेयो महाद्युति:।।4।।
यदुक्तं देवदेवेन नृपाणामग्रत: प्रभो।
यास्यांमि मथुरां रम्यां भोजराजेन पालिताम्।।5।।