अर्जुन उवाच
तत: कृष्ण भोजयित्वा: शतानि सुबहूनि च।
विप्राणामृषिकल्पानां कृतकृत्योऽभवत् तदा।।1।।
तत: सह मया भुक्त्वा वृष्णिभोजैश्च सर्वश:।
विचित्राश्च कथा दिव्या: कथयामास भारत।।2।।
तत: कथान्ते तत्राहमभिगम्य जनार्दनम् ।
अपृच्छं तद् यथावृत्तं कृष्णंयद् दृष्टवाहनम्।।3।।
कथं समुद्र: स्तंब्धोषदं कृतस्तु कमलेक्षण।
पवर्तनां च विवरं कृतं तत् कथमच्युत।।4।।
तमस्तच्चर कथं घोरं घनं चक्रेण पाटितम्।
तच्चत यत् परमं तेज: प्रविष्टोऽसि कथं च तत्।।5।।