वैशम्पायन उवाच
ते तु युंक्त्वा रथवरं सर्व एवामितौजस:।
कृष्णेन सहिता: प्रायंस्तथा संकर्षणेन च।।1।।
आसेदुस्ते पुरीं रम्यां मथुरां कंसपालिताम्।
विविशुस्ते पुरीं रम्यां काले रक्तदिवाकरे।।2।।
तौ तु स्वभवनं वीरौ कृष्णसंकर्षणावुभौ।
प्रवेशितौ बुद्धिमता ह्यक्रूरेणार्कवर्चसौ।।3।।
तावाह वरवर्णाभौ भीतो दानपतिस्तदा।
त्यक्तव्या तात गमने वसुदेवगृहे स्पृहा।।4।।
युवयोर्हि कृते वृद्ध: कंसेन स निरस्यते।
भत्स्यते च दिवा रात्रौ नेह स्थातवयमित्यपि।।5।।