जनमेजय उवाच
श्रुतोऽयं षट्पुरवधो रम्योे मुनिवरोत्तम।
पुरोक्तमन्धकवधं वैशम्पायन कीर्तय।।1।।
भानुमत्याश्च हरणं निकुम्भस्य वधं तथा।
प्रब्रूहि वदतां श्रेष्ठय परं कौतुहलं हिमे।।2।।
वैशम्पायन उवाच
दितिर्हतेषु पुत्रेषु विष्णुना प्रभविष्णुना।
तपसाऽऽराधयामास मारीचं कश्यप पुरा।।3।।
तपसा कालयुक्तेमन तथा शुश्रूषया मुने:।
आनुकूल्येन च तथा माधुर्येण च भारत।।4।।
परितुष्टे: कश्यपस्तु तामुवाच तपोधन:।
परितुष्टोऽस्मि ते भद्रे वरं वरय सुव्रते।।5।।