वैशम्पायन उवाच
ते वासववच: श्रुत्वा हंसा वज्रपुरं ययु:।
पूर्वोचितं हि गमनं तेषां तत्र जनाधिप।।1।।
ते दीर्घिकासु रम्यासु निपेतुर्वीर पक्षिण:।
पद्मोत्पलैरावृतासु कांचनै: स्पंर्शनक्षमै:।।2।।
ते वै नदन्तो मधुरं संस्कृनतापूर्वभाषिण:।
पूर्वमप्यागतास्ते तु विस्मायं जनयन्ति हि।।3।।
अन्त: पुरोपभोग्यासु चेरुर्वापीषु ते नृप।
दृष्टापस्ते वज्रनाभस्य त्रिविष्टषपनिवासिन:।।4।।
आलपन्त: सुमधुरं धार्तराष्ट्रा जनेश्वर।
स तानुवाच दैतेयो धार्तराष्ट्रांनिदं वच:।।5।।