वैशम्पायन उवाच
नारदोऽथ मुनिर्गत्वा महेन्द्रसदनं प्रति।
तां रात्रिमवसत् तत्र ददृशे च महोत्सवम्।।1।।
तत्रादित्या महात्मानो वसवश्च सुरोत्तमा:।
राजर्षयश्चा विद्वांस: स्वोर्गता: कर्मभि: शुभै:।।2।।
नागा यक्षाश्च सिद्धाश्च चारणाश्च तपोधना:।
ब्रह्मर्षयश्च शतशो देवर्षिमनवस्तथा।।3।।
सुपर्णाश्च महात्मानो मरुतश्च महाबला:।
दिवौकसां निकायाश्च शतशोऽन्ये समागता:।।4।।
उपर्युपरि सर्वेषां सोमो देवो महेश्वर:।
तस्थावमितविक्रान्त: स्वैर्गणै: परिवारित:।।5।।