स नन्दगोपस्य गृहं प्रविष्ट: सहकेशव:।
गोपवृद्धान् समानीय प्रोवाचामितदक्षिण:।।1।।
कृष्णं चैवाब्रवीत् प्रीत्या रौहिणेयेन संगतम्।
श्व: पुरीं मथुरां तात गमिष्याम: सुखाय वै।।2।।
यास्यन्ति च व्रजा: सर्वे गोपाला: सपरिग्रहा:।
कंसाज्ञया समुचितं करमादाय वार्षिकम्।।3।।
समृद्धस्तत्र कंससय भविष्यति धनुर्मह:।
तं द्रक्ष्यथ समृद्धं च स्वजनैश्च समेष्यथ।।4।।
पितरं वसुदेवं च सततं दु:खभाजनम्।
दीनं पुत्रबधश्रान्तं युवामद्य समेष्यथ:।।5।।