वैशम्पायन उवाच
प्रागेव वसुदेवस्तु व्रजे शुश्राव रोहिणीम्।
प्रजातां पुत्रमेवाग्रे चन्द्रात् कान्ततराननम्।।1।।
स नन्दगोपं त्वरित: प्रोवाच शुभया गिरा।
गच्छानया सहैव त्वं व्रजमेव यशोदया।।2।।
तत्र तौ दारकौ गत्वा जातकर्मादिभिर्गुणै:।
योजयित्वा व्रजे तात संवर्धय यथासुखम्।।3।।
रौहिणेयं च पुत्रं मे परिरक्ष शिशुं व्रजे।
अहं वाच्यो भविष्यामि पितृपक्षेषु पुत्रिणाम्।।4।।
योऽहमेस्य पुत्रस्य न पश्चामि शिशोर्मुखम्।
ह्रियते हि बलात् प्रज्ञा प्राज्ञस्यापि सतो मम।।5।।