जनमेजय उवाच
वैशम्पायन धर्मज्ञ व्यासशिष्य तपोधन।
पारिजातस्य हरणे षट्पुरं परिकीर्तितम्।।1।।
निवासोऽसुरमुख्यानां दारुणानां तपोधन।
तेषां वधं मुनिश्रेष्ठे कीर्तयस्वातन्ध कस्य च।।2।।
वैशम्पायन उवाच
त्रिपुरे निहते वीर रुद्रेणाक्लिष्टकर्मणा।
तत्र प्रधाना बहवो बभूवुरसुरोत्तमा:।।3।।
शराग्निना न दग्धाहस्ते रुद्रेण त्रिपुरालया:।
षष्टि: शतसहस्राणि न न्यूनान्यधिकानि च।।4।।
ते ज्ञातिवधसंतप्तासश्चक्रुर्वीरा: पुरा तप:।
जम्बूमार्गे सतामिष्टे महर्षिगणसेविते।।5।।