वैशम्पायन उवाच
तत्र तस्यात: काल: सुमहानत्यवर्तत।
गोव्रजे नन्दगोपस्य बल्लवत्वं प्रकुर्वत:।।1।।
दारकौ कृतनामानौ ववृधाते सुखं च तौ।
ज्येष्ठ: संकर्षणो नाम कनीयान् कृष्ण एव तु।।2।।
मेघकृष्णस्तु कृष्णोऽभूद् देहान्तरगतो हरि:।
व्यवर्धत गवां मध्ये सागरस्य इवाम्बुद:।।3।।
शकटस्य त्वध: सुप्तं कदाचित् पुत्रगृद्धिनी।
यशोदा तं समुत्सृज्य जगाम यमुनां नदीम्।।4।।
शिशुलीलां तत: कुर्वन् स हस्तचरणौ क्षिपन्।
रुरोद मधुरं कृष्ण: पादावूर्ध्वं प्रसारयन्।।5।।