वैशम्पायन उवाच
सोऽज्ञापयत संरब्ध: सचिवानात्मनो हि तान्।
यत्ता भवत सर्वे वै देवक्या गर्भकृन्तने ।।1।।
प्रथमादेव हन्तव्या गर्भास्ते सप्त एव हि ।
मूलादेव तु हन्तव्य: सोऽनर्थो यत्र संशय: ।।2।।
देवकी च गृहे गुप्ता प्रच्छन्नैरभिरक्षिता ।
स्वैरं चरतु विश्रब्धा गर्भकाले तु रक्ष्यताम् ।।3।।
मासान् वै पुष्पमासादीन् गणयन्तु मम स्त्रिय:।
परिणामें तु गर्भस्य शेषं ज्ञास्यामहे वयम् ।।4।।
वसुदेवस्तु संरक्ष्य: स्त्रीसनाथासु भूमिषु।
अप्रमत्तैर्मम हितै रात्रावहनि चैव हि।
स्त्रीभिर्वर्षवरैच्श्रैव वक्तव्यं न तु कारणम् ।।5।।