वैशम्पायन उवाच
अथ द्वारवतीं प्राप्य स्थिता सा भवनान्तिके।
प्रवृत्तिहरणार्थाय चित्रलेखा व्यचिन्तयत्।।1।।
अथ चिन्तयती सा तु बुद्धिबुद्ध्यर्थनिश्चयम्।
अपश्यन्नारदं तत्र ध्यायन्तमुदके मुनिम्।।2।।
तं दृष्ट्वाण चित्रलेखा तु हर्षेणोत्फुाल्ललोचना।
उपसृत्याभिवाद्याथ तत्रैवाधोमुखी स्थिता।।3।।
नारदस्वावाशिषं दत्वा चित्रलेखामथाब्रवीत्।
किमर्थमिह सम्प्राप्ता श्रोतुमिच्छामि तत्त्वत:।।4।।
देवर्षिमथ तं दिव्यं नारदं लोकपूजितम्।
कृतांञ्जलिपुटा भूत्वा चित्रलेखा त्वतथाब्रवीत्।।5।।