वैशम्पायन उवाच
जामदग्ये गते रामे तौ यादवकुलोद्वहौ।
गोमन्तयशिखरे रम्ये चेरत: कामरूपिणौ।।1।।
वनमालाकुलोरस्कौ नीलपीताम्बरावुभौ।
नीलश्वेतवपुष्मन्तौ गगनस्थाविवाम्बुदौ।।2।।
तौ शैलधातुदिग्धांगौ युवानौ शिखरे स्थितौ।
चेरतुस्तत्र कान्तेषु वनेषु रतिलालसौ।।3।।
उदयन्तं निरीक्षन्तौ शशिनं ज्योतिषां वरम्।
उदयास्तमने चैव ग्रहाणां धरणीधरे।।4।।
अथ संकर्षण: श्रीमान् विना कृष्णेन वीर्यवान्।
चचार तस्य शिखरे नगस्य नगसंनिभ:।।5।।