वैशम्पायन उवाच
देवराजवच: श्रुत्वा् नारद: कुरुनन्दन।
प्रोवाच वाक्यं वाक्यज्ञो धर्मात्मा धर्मवित्तम:।।1।।
अवश्यमेव वक्ताव्यं हितं बलनिषूदन।
मया तव महाबाहो बहुमानोऽस्ति मे त्व्यि।।2।।
उक्तो मया वासुदेवो जानता भवतो मतम्।
न दत्त: पारिजातोऽयं हरस्यापि त्व या पुरा।।3।।
हेतवश्चम मया तस्यर दर्शितास्ते समासत:।
न चावगतवान् देव: सत्यमेतद् ब्रवीमि ते।।4।।
उपेन्द्रोऽहं महेन्द्रेण लालनीय: सदेति माम्।
उवाच पुण्डरीकाक्षो दत्तेमुत्तरमेव च।।5।।