जनमेजय उवाच
भूय एव महाबाहोर्यदुसिंहस्य धीमत:।
कर्माण्यपरिमेयाणि श्रुतानि द्विजसत्तम।।1।।
त्वत्त: श्रुतवतां श्रेष्ठ वासुदेवस्य धीमत:।
यत् त्वया कथितं पूर्वं बाणं प्रति महासुरम्।।2।।
तदहं श्रोतुमिच्छामि विस्तरेण तपोधन।
कथं च देवदेवस्य पुत्रत्वमसुरो गत:।।3।।
योऽभिगुप्ते: स्वयं ब्रह्मञ्छकरेण महात्मना।
सहवासं गतेनैव सगणेन गुहेन तु।।4।।
बलेर्बलवत: पुत्रो ज्येष्ठों भ्रातृशतस्य् य:।
वृतो बाहुसहस्रेण दिव्यास्त्रशतधारिणा।।5।।