उमोवाच
सर्वज्ञाहं यदा भर्तु: प्रसादेन शुचिस्मिते।
तदा पुरा ममादिष्टो दृष्ट: पुण्यविधि:शुभ:।।1।।
सनातन: पुण्याविधिरिति बुद्धयावगम्येताम्।
महादेवप्रसादेन मया दृष्टस्व् बुरुन्धरति।।2।।
पुण्यवकानि च सर्वाणि चीर्णवत्यस्म्यनिन्दिते।
अनुज्ञया भगवतो भर्तु: शर्वस्य धीमत:।।3।।
सतीत्वं धर्मचरणं यस्या नित्यमखण्डितम्।
पुण्यकानां विधिस्तस्या: पुराणै: परिकीर्तित:।।4।।
दानोपवासपुण्यानि सुकृतान्यप्यरुन्धति।
निष्फलान्य सतीनां हि पुण्यकनि तथा शुभे।।5।।