वैशम्पायन उवाच
उपविष्टं मुनिं ज्ञात्वा रुक्मिण्या सह केशव:।
निश्चक्रामाप्रमेयात्मा व्यपदेशेन सर्ववित्।।1।।
जगाम त्वरितश्चैव सत्यभामागृहं महत्।
रम्येत रैवतकोद्देशे निर्मितं विश्वकर्मणा।।2।।
अभिमानवतीमिष्टां प्राणैरपि गरीयसीम्।
जानन् सात्राजितीं विष्णुर्विवेश शनकैरिव।।3।।
रुषितामिव तां देवीं स्नेतहात् संकल्पयन्निव।
भीतभीत: स शनकैर्विवेश मधुसूदन:।।4।।
सेवकं द्वारदेशे तु तिष्ठेत्युक्वा विवेश ह।
नारदस्योपचारार्थं प्रद्युम्नं विनियुज्य स:।।5।।