जनमेजय उवाच
भानुमत्यापहरणं विजयं केशवस्या च।
छालिक्यनयनं चैव देवलोकान्मयहामुने।।1।।
क्रीडां च सागरे दिव्यां वृष्णीनामतितेजसाम्।
अश्रौषं परमाश्चर्यं मुने धर्मभृतां वर।।2।।
वज्रनाभवधो ह्युक्तो निकुम्भवधकीर्तने।
तन्मे कौतूहलं श्रोतुं प्रसादाद् भवतो मुने।।3।।
वैशम्पायन उवाच
हन्त ते वर्तयिष्यामि वज्रनाभवधं नृप।
विजयं चैव कामस्य साम्बपस्यैव च भारत।।4।।
मेरो: सानौ नरपते तपश्चक्रे महासुर:।
वज्रनाभ इति ख्यातो निश्चित: समितिंजय:।।5।।