वैशम्पापयन उवाच
तत: सुपुरवासीनामसुराणां नराधिप।
ददावाज्ञां वज्रनाभो दीयतां गृहमुत्त मम्।।1।।
आतिथ्यं कियतामेषां बहुरत्नामुपायनम्।
वासांसि सुविचित्राणि सुखाय जनरंजनम्।।2।।
भर्तुराज्ञां समालभ्य तथा चक्रुश्च सर्वश:।
पूर्वश्रुतो नट: प्राप्त: कौतूहलमजीजनत्।।3।।
नटस्थाय ददुर्दैत्या: सत्कारं परया मुदा।
पर्यायार्थे ददुश्चारपि रत्नानि सुबहून्यथ।।4।।
तत: स ननृते तत्र वरदत्तो नटस्तयथा ।
सुपुरे पुरवासीनां परं हर्षं समादधत्।।5।।