वैशम्पायन उवाच
भर्तारं पतितं दृष्ट्वा क्षीणपुण्यमिव ग्रहम्।
कंसपत्न्यो हतं कंसं समन्तात् पर्यवारयन्।।1।।
तं महीशयने सुप्तं क्षितिनाथं गतायुषम्।
भार्या: स्म दृष्ट्वा शोचन्ति मृग्यो मृगपतिं यथा।।2।।
हा हता: स्म महाबाहो हताशा हतबान्धवा:।
वीरपत्न्यो हते वीरे त्वयि वीरव्रतप्रिये।।3।।
इमामवस्थां पश्यन्त्य: पश्चिमां तव नैष्ठिकीम्।
कृपणं राजशार्दूल विलपाम: सबान्धवा:।।4।।
छिन्नमूला: स्म संवृत्ता: परित्यक्तास्त्वया विभो।
त्वयि पंचत्वमापन्ने नाथेऽस्माकं महाबले।।5।।