वैशम्पायन उवाच
क्रीडाविहारोपगत: कदाचिदभवद् भव:।
देव्या सह नदीतीरे रम्ये श्रीमति स प्रभु:।।1।।
शतानि तत्राप्सरसां चिक्रीडुश्च समन्तत:।
सर्वर्तुकवने रम्येन गन्धर्वपतयस्तथा।।2।।
कुसुमै: पारिजातस्य पुष्पै: संतानकस्य च।
गन्धोद्दाममिवाकाशं नदीतीरं तु सर्वश:।।3।।
वेणुवीणामृदंगैश्च पणवैश्च सहस्रश:।
वाद्यमानै: स शुश्राव गीतमप्सरसां तदा।।4।।
सूतमागधकल्पैश्चास्तुवन्नप्सरसां गणा:।
देवदेवं सुवपुषं स्त्रग्विणं रक्तसवाससम्।।5।।
श्रीमहेशं देवदेवमर्चयन्ति मनोरमम्।