ततस्तु देव्या रूपेण चित्रलेखा वराप्सरा:।।6।।
भवं प्रसादयामास देवी च प्राहसत् तदा।
प्रसादयन्तीमीशानं प्रहसन्त्यप्सरोगणा:।।7।।
भवस्य पार्षदा दिव्या नानारूपा महौजस:।
देव्या ह्यनुज्ञया सर्वे क्रीडन्तेन तत्र तत्र ह।।8।।
अथ ते पार्षदास्तत्र रहस्ये सुविपश्चत:।
महादेवस्य रूपेण तच्चिह्नं रूपमास्थिता:।।9।।
ततो देव्या: सुरूपेण लीलया वदनेन च।
देवी प्रहासं मुमुचे ताश्चैवाप्सरसस्तदा।
तत: किलकिलाशब्द: प्रादुर्भूत: समन्तत:।।10।।