वैशम्पायन उवाच
रुद्धेषु भूमिपालेषु सानुगेषु विशाम्पते।
आविवेशासुरांश्चाथ कश्मलं जनमेजय।।1।।
दिश: प्रतस्थुस्ते वीरा वध्यमाना: समन्तत:।
कृष्णानन्तप्रभृतिभिर्यदुभिर्युद्धदुर्मदै:।।2।।
निकुम्भस्तानथोवाच रुषितो दानवोत्तम:।
भित्त्वा प्रतिज्ञां किं मोहाद् भयार्ता यात विह्वला:।।3।।
हीनप्रतिज्ञा: कॉल्लोकान् प्रयास्यथ पलायिता:।
अगत्वापचितिं युद्धे ज्ञातीनां कृतनिश्चया:।।4।।
फलं जित्वेह भोक्तव्यं रिपून् समरकर्कशान्।
हतेन चापि शूरेण वस्तव्यं त्रिदिवे सुखम्।।5।।