वैशम्पायन उवाच
हृतो यदैव प्रद्युम्न: शम्बरेणात्मघातिना।
मासेऽस्मिन्नेव साम्बसतु जाम्बवत्यामजायत।।1।।
बाल्यात्प्रति रामेण शस्त्रेषु विनियोजित:।
रामादनन्तरश्चैव मानित: सर्ववृष्णिभि:।।2।।
जातमात्रे तत: कृष्ण: शुभां तामवसत् पुरीम्।
निहतामित्रसामन्त: शक्रोद्यानं यथामर:।।3।।
यादवीं च श्रियं दृष्ट्वा स्वांं श्रियं द्वेष्टि वासव:।
जनार्दनभयाच्चैंव न शान्तिं लेभिरे नृपा:।।4।।
कस्यचित् त्वथ कालस्य् पुरे वारणसाह्वये।
दुर्योधनस्य यज्ञे वै समीयु: सर्वपार्थिवा:।।5।।