नन्दीमुखो मयूरश्चा बद्धमुक्तामणिध्वजा:।।101।।
आयुधानि प्रशस्तानि कार्यसिद्धिकराणि च।
पुण्यं वै विगतक्लेनशं श्रीमद् वै मंगलान्वितम्।।102।।
रामेणोदाहृतं पूर्वमायु: श्रीजयकांक्षिणा।
य इदं श्रावयेद् विद्वांस्तथैव श्रृणुयान्नर:।।103।।
मंगलाष्टरशतं स्नातो जपन पर्वणि पर्वणि।
वधबन्धपरिक्लेशं व्याधिशोकपराभवम्।
न च प्राप्नोति वैकल्यं परत्रेह च शर्मदम्।।104।।
धन्यं यशस्यमायुष्यं पवित्रं वेदसम्मतम्।।105।।
श्रीमत्स्वर्ग्यं सदा पुण्यरमपत्यवजननं शिवम्।
शुभं क्षेमकरं नृणां मेधाजननमुत्तमम्।
सर्वरोगप्रशमनं स्वकीर्तिकुवर्धनम्।।106
श्रद्दधानो दयोपेतो य: पठेदात्मवान्नर: ।
सर्वपापविशुद्धात्मा लभते शुभां गतिम्।।107।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुतपर्वणि बलदेवाह्निकं नाम नवाधिकशततमोऽध्याय:।