वैशम्पायन उवाच
मथुरोपवने गत्वा निविष्टांस्तान् नराधिपान्।
अपश्यन् वृष्णय: सर्वे पुरस्कृत्य जनार्दनम्।।1।।
ततो हृष्टमना: कृष्णो रामं वचनमब्रवीत्।
त्वरते खलु कार्यार्थो देवतानां न संशय:।।2।।
यथायं संनिकृष्टो हि जरासंधो नराधिप:।
लक्ष्यन्ते हि ध्वजाग्राणि रथानां वातरंहसाम्।।3।।
एतानि शशिकल्पानि नृपाणां विजिगीषताम्।
छत्राण्यार्यं विराजन्ते प्रोच्छ्रितानि सितानि च।।4।।
अहो नृपरथादग्रा विमलाश्छत्रपंक्तय:।
अभिवर्तन्तिन: शुभ्रायथाखे हंसपंक्तय:।।5।।