वैशम्पायन उवाच
एवं वृकांश्च तान् दृष्ट्वा वर्धमानान् दुरासदान्।
सस्त्रीपुमान् स घोषो वै समस्तो अमन्त्रयत् तदा।।1।।
स्थानेनेह न न: कार्यं व्रजामोअन्यन्महद्वनम्।
यच्छिवं च सुखोष्यं च गवां चैव सुखावहम्।।2।।
अद्यैव किं चिरेण स्म व्रजाम: सह गोधनै:।
यावद् वृकैर्वधं घोरं न न: सर्वो व्रजो व्रजेत्।।3।।
एषं धूम्रारुणांगनां दंष्ट्रिणां नखकर्षिणाम्।
वृकाणां कृष्णवक्त्राणां बिभीमो निशि गर्जताम्।।4।।
मम पुत्रो मम भ्राता मम वत्सोऽथ गौर्मस।
वृकैर्व्यापादिता ह्येवं कन्दन्ति स्म गृहे गृहे।।5।।