तासां रुदितशब्देन गवां हंभारवेण च।
व्रजस्योत्थापनं चक्रुर्घोषवृद्धा: समागता:।।6।।
तेषां मतमथाज्ञाय गन्तुं वृन्दावनं प्रति।
व्रजस्य विनिवेशाय गवां चैव हिताय च।।7।।
वृन्दावननिवासाय तांण्ज्ञात्वा कृतनिश्चयान।
नन्दगोपो बृहद्वाक्यं बृहस्पतिरिवाददे।।8।।
अद्यैव निश्चयप्राप्तिर्यदि गन्तव्यमेव न:।
शीघ्रमाज्ञाप्यतां घोष: सज्जीभवत मा चिरम्।।9।।
ततोऽवघुष्यत तदा घोषे तत् प्राकृतैर्जनै:।
शीघ्रं गाव: प्रकल्प्यन्तां भाण्डं समभिरोप्यताम्।।10।।