वत्सयूथानि काल्यन्तां युज्यन्तां शकटानि च।
वृन्दावनमित: स्थानान्निवेशाय च गम्यताम् ।।11।।
तच्छ्रुत्वा नन्दगोपस्य वचनं साधु भाषितम्।
उदतिष्ठद् व्रज: सर्व: शीघ्रं गमनलालस:।।12।।
प्रयाह्युत्तिष्ठ गच्छाम: किं शेषे याहि योजय।
उत्तिष्ठिति व्रजे तस्मिन् गोपकोलाहलो ह्यभूत।।13।।
उत्तिष्ठमान: शुशुभे शकटीशकटस्तु स:।
व्याघ्रघोषमहाघोषो घोष: सागरघोषवान्।।14।।
गोपीनां गर्गरीभिश्च मूर्ध्रि चोत्तम्भितैर्घटै:।
निष्पाप व्रजात पंक्तिस्तारापंक्तिरिवाम्बरात्।।15।।