वैशम्पायन उवाच
एवं वरान् बहून प्राप्य बाण: प्रीतमनाऽभवत्।
जगाम सह रुद्रेण महाकालत्वमागत:।।1।।
वासुदेवोऽपि बहुधा नारदं पर्यपृच्छत।
क्वानिरुद्धोऽस्ति भगवन् संयतो नागबन्धनै:।।2।।
श्रोतुमिच्छामि तत्त्वेन न स्नेहक्लिन्नं हि मे मन:।
अनिरुद्धे हृते वीरे क्षुभिता द्वारका पुरी।।3।।
शीघ्रं तं मोक्षयिष्यामो यदर्थं वयमागता:।
अद्य तं नष्टशत्रुं वै द्रष्टुंमिच्छामहे वयम्।।4।।
स प्रदेशस्तु भगवन् विदितस्तव सुव्रत।
एवमुक्तस्तुु कृष्णेन नारद: प्रत्यभाषत।।5।।
कन्यापुरे कुमारोऽसौ बद्धो नागैश्च माधव।