वैशम्पायन उवाच
तत: प्रवृद्धं युद्धं तु तुमुलं लोमहर्षणम्।
शम्बरस्य् तु पुत्राणां रुक्मिण्या नन्दनस्य च।।1।।
तत: क्रुद्धा महादैत्या: शरशक्तिपरश्वधान्।
चक्रतोमरकुन्तानि भुशुण्डीार्मुसलानि च।।2।।
युगपत पातयन्ति स्म प्रद्युम्नोपरि वेगिता:।
कार्ष्णायनिस्तु संक्रुद्ध: सर्वास्त्रवधनुषच्युतै:।।3।।
एकैकं पंञ्चभि: क्रुद्धश्चिच्छेद रणमूर्धनि।
पुनरेवासुरा: क्रुद्धा: सर्वे ते कृतनिश्चया:।।4।।
बवृषु: शरजालानि प्रद्युम्नावधकांक्षया।
तत: प्रकुपितोऽनंगो धनुरादाय सत्त्वनर:।।5।।
शम्बरस्य जघानाशु दश पुत्रान् महौजस:।