निशि बालान् हरद्भिश्च वृकैरुत्साद्यते व्रज:।
न वने शक्यते गन्तुं न गाश्च परिरक्षितुम्।।36।।
न वनात् किंचिदाहर्तुं न च वा तरितुं नदीम्।
त्रस्ता ह्युद्विग्नमनसोऽगतास्तस्मिन् वनेऽवसन्।।37।।
एवं वृकैरुदीर्णैस्तु व्याघ्रतुल्यपराक्रमै:।
व्रजो निष्पन्दचेष्ट: स एकस्थानचर: कृत:।।38।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शिशुचर्यायां वृकदर्शनेअष्टमोअध्याय:।