घोराश्चिन्तयतस्तस्य स्वतनूरुहजास्तदा।
विनिष्पेतुर्भयकरा: सर्वश: शतशो वृका:।।31।।
निष्पतन्ति स्म बहवो व्रजस्योत्सादनाय वै।
वृकान् निष्पतितान् दृष्ट्वा गोषु वत्सेष्वथो नृषु।।32।।
गोपीषु च यथाकामं व्रजे त्रासोऽभवन्महान्।
ते वृका: पंचबद्धश्च दशबद्धास्तथा परे।।33।।
त्रिंशद्विंशतिबद्धाश्च शतबद्धास्तथ परे।
निश्चेरुस्तस्य गात्रेभ्य: श्रीवत्सकृतलक्षणा:।।34।।
कृष्णस्य कृष्णवदना गोपानां भयवर्धना:।
भक्षयद्भिश्च तैर्वत्सांस्त्रासयद्भिश्च गोव्रजान्।।35।।