एतयोश्च हि को युद्धं कुमारभवयोरिह।
शक्तो् दातुं समागम्य बाणसाहाय्यकांक्षिणो:।।86।।
न च देववचो मिथ्या भविष्यति कदाचन।
भविष्यति महद् युद्धं सर्वदैत्यविनाशनम्।।87।।
स एवं चिन्तयाविष्ट: कुम्भाण्डस्तत्त्वदर्शिवान्।
स्वस्तिप्रणिहितां बुद्धिं चकार च महासुर:।।88।।
ये हि देवैर्विरुध्यन्ते पुण्यकर्मभिराहवे।
यथा बलिर्नियमितस्तथा ते यान्ति संक्षयम्।।89।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि बाणयुद्धे षोडशाधिकशततमोऽध्याय:।