नियतो दोष एवायं भविष्यति न संशय:।
दौरात्म्यान्नृवतन्नृपतेरस्य दोषभूता हि दानवा:।।81।।
देवदानवसंघानां य: कर्ता भुवनप्रभु:।
भगवान् कार्तिकेयश्च कृतवॉल्लोहिते पुरे।।82।।
प्राणै: प्रियतरो नित्यं भविष्यति गुह: सदा।
तद्विशिष्टाश्च बाणोऽपि शिवस्य सततं प्रिय:।।83।।
दर्पोत्सेकात् तु नाशाय वरं याचितवान् भवम्।
युद्धहेतो: स लुब्धस्तु सर्वथा च भविष्यति।।84।।
यदि विष्णुपुरोगानामिन्द्रादीनां दिवौकसाम्।
भवित्री घनवत् प्राप्तिर्भवहस्ता्त् कृता भवेत्।।85।।