तद् युवाभ्यां हि कर्तव्यं पित्रर्थं सुखमुत्तमम्।
यथा सुखमवाप्नोति तद् वै कार्यं हितान्वितम्।।6।।
तमुवाच तत: कृष्णो यास्यावावामतर्कितौ।
प्रेक्षन्तौ मथुरां वीर राजमार्गं च धार्मिक।
तस्यैव तु गृहं साधो गच्छावो यदि मन्यसे।।7।।
वैशम्पायन उवाच
अक्रूरोऽपि नमस्कृत्य मनसा कृष्णमव्ययम्।
जगाम कंसपार्श्वं तु प्रहृष्टेनान्तरात्मना।।8।।
अनुशिष्टौ च तौ वीरौ प्रस्थितौ प्रेक्षकावुभौ।
आलानाभ्यामिवोन्मुक्तौ कुंजरौ युद्धकांक्षिणौ।।9।।
तौ तु मार्गगतं दृष्ट्वा रजकं रंगकारकम्।
अयाचेतां ततस्तौ तु वासांसि रुचिराणि वै।।10।।