प्रसीद धर्मलोपश्च मा भून्मे मधुसूदन।
न मां समयभेदेन योक्तुमर्हसि माधव।।91।।
जीवन्नामहं प्रदास्यामि गावो वै वृषभेक्षण।
हत्वा नयस्व मां गाव एष मे समय: पुरा।।92।।
एतच्चन मे समाख्यातं समयं मधुसूदन।
सत्यमेव महाबाहो न मिथ्या तु सुरेश्वर।।93।।
यद्येवाहमनुग्राह्यो रक्ष मां मधुसूदन।
अथवा गोषु निर्बन्धो हत्वा नय महाभुज।।94।।
वैशम्पायन उवाच
वरुणेनैवमुक्तास्तु यदूनां वंशवर्धन:।
अभेद्यं समयं मत्वा न्यस्तवादो गवां प्रति।।95।।