श्रीकृष्ण उवाच
गाव: प्रयच्छि मे वरी शान्त् यर्थं भीमविक्रम।।86।।
इत्येमुक्ते कृष्णेन वाक्यं वाक्यंविशारद:।
वरुणो ह्यब्रवीद् भूय: श्रृणु मे मधुसूदन।।87।।
वरुण उवाच
बाणेन सार्धं समयो मया देव कृत: पुरा।
कथं च समयं कृत्वा कुर्यां विफलमन्यथा।।88।।
त्वमेव वेद सर्वस्य यथा समयभेदक:।
चारित्रं दुष्यते तेन न च सद्भि: प्रशस्यते।।89।।
धर्मभाग्भिर्नरो नित्यं वर्ज्यऽते मधुसूदन।
न च लोकानवाप्नोति पाप: समयभेदक:।।90।।