तत्र देवा: समरुत: ससाध्या: सिद्धचारणा:।।101।।
गन्धर्वाप्सरसश्चैंव किंनराश्चान्तरिक्षगा:।
अनुगच्छन्ति भूतेशं सर्वभूतादिमव्ययम्।।102।।
आदित्या वसवो रुद्रा अश्विनौ यक्षराक्षसा:।
विद्याधरगणाश्चैव ये चान्ये सिद्धचारणा:।
गच्छयन्तमनुगच्छेन्ति यशसा विजयेन च।।103।।
नारदश्च महाभाग: प्रस्थितो द्वारकां प्रति।
तुष्टो बाणजयं दृष्ट्वा् वरुणं च कृतप्रियम्।।104।।
कैलासशिखरप्रख्यै: प्रासादै: कन्दरै: शुभै:।
दूरान्निशम्य मधुहा द्वारकां द्वारमालिनीम्।।105।।